स्वस्त्ति वाचन मन्त्रा:

स्वस्त्ति वाचन मन्त्रा:



स्वस्तिवाचनमन्त्राः 
( फल फुल दुबो अक्षता द्रब्य आदि लिएर नमस्कार गर्ने) - 

 श्रीमन्महागणाधिपतये नमः । 
लक्ष्मीनारायणाभ्यां नमः । 
उमामहेश्वराभ्यां नमः । 
वणीहिरण्यगर्भाभ्यां नमः। 
शचीपुरन्दराभ्यां नमः। 
मातृपितृ-गुरुचरणकमलेभ्यो नमः । 
इष्टदेवताभ्यो नमः । 
कुलदेवताभ्यो नमः। 
ग्रामदेवताभ्यो नमः । 
वास्तुदेवताभ्यो नमः । 
स्थानदेवताभ्यो नमः । 
पितृ देवताभ्यो नम: । 
सर्वेभ्यो देवेभ्यो नमः । 
सर्वेभ्यो ब्राह्मणेभ्यो नमः । 

 सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 
 लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ 
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
 द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
 विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । 
 सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ 
 शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । 
 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ 
अभीप्सितार्थसिद्धधर्थ पूजितो यः सुरासुरैः । 
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

 
शुक्लयजुर्वेदीयस्वस्तिवाचनमन्त्राः 
( फल फुल दुबो अक्षता द्रब्य आदि लिएर नमस्कार गर्ने) - 

 हरिः ॐ आनो भद्राः क्रतवो यन्तु व्विश्श्वतो दब्धासोऽ अपरीतासऽ उद्भिदः ।।
 देवानो यथा सदमिद्द्द्वृधेऽ असन्न प्प्रायुवो रक्क्षितारो दिवेदिवे ॥१॥ 
 
देवानाम् भद्रा सुमतिर्ऋजू यतान्देवाना ᳬ राति रभिनो निवर्तताम् ॥ 
देवाना ᳬ सक्ख्य मुपसे दिमा व्वयन्देवानऽ आयुः प्प्रतिरन्तु जिवसे ॥२॥ 

तान्पूर्व्वयानि विदाहू महे व्वयम् भगम्मित्र मदितिन्दक्क्ष मस्रिधम् ।। अर्य्यमणं व्वरुण ᳬ सोम मश्श्विना सरस्वतीनः सुभगा मयस्क्करत् ॥३॥ 

तन्नो व्वातो मयो भुव्वातु भेषजन् तन्न्माता प्पृथिवी तत्त्पिता द्यौः ।। तद्द्ग्रावाणः सोमसुतो मयो भुवस्त्त द्श्विना श्रृणुतन्धिष्ण्ण्या युवम्।। ४।॥ 

तमीशानञ् जगतस्तस्त्थुषस्प्पतिन् धियञ्जिन्न्वमवसे हूमहेव्वयम् ।। 
पूषानो यथाव्वेद सामसद्द्वृधे रक्क्षिता पायुरदब्धः स्वस्त्तये ॥५॥ 

स्वस्तिनऽ इन्द्रो व्वृद्धश्श्रवाः स्वस्त्तिनः पूषा व्विश्श्ववेदाः ।। स्वस्ति नस्त्तार्क्षो ऽ अरिष्टनेमिः स्वस्तिनो बृहस्प्पति र्दधातु ॥६॥ 

पृषदश्श्वा मरुतः पृश्न्नि मातरः शुभँ य्यावानो व्विदथे षुजगग्मयः ॥ अग्नि जिह्ववा मनवः सुर चक्क्षसो व्विश्श्वेनो देवाऽ अवसा गमन्निह ॥७॥ 

भद्रङ्कर्णेभिः श्रृणुया मदेवा भद्रम्पश्श्येमा क्क्षभिर्य्यजत्राः ।। स्थिरैरङ्गै स्तुष्टुवा ᳬ सस्तनू भिर्व्यशे महिदेव हितं य्यदायुः ॥८॥ 

शतमिन्नु शरदोऽ अन्तिदेवा यत्रा नश्च्चक्रा जरसन्तनू नाम् ।। पुत्रासो यत्र पितरो भवन्तिमानो मध्या रीरिषता युर्ग्गन्तो: ॥९॥ 

अदितिर्द्यौ रदिति रन्तरिक्क्ष मदिति र्माता सपिता सपुत्रः । व्विश्श्वेदेवा ऽअदितीः पञ्चजनाऽ अदिति र्जातमदिति जनित्त्वम् ।। १०॥ 

द्यौः शान्ति रन्तरिक्क्ष ᳬ शान्तीः पृथिवी शान्तिरापः शान्ति रोषधयः शान्तीः ॥ व्वनस्प्पतयः शान्ति र्विश्श्वेदेवाः शान्ति ब्रह्मम शान्तीः सर्व ᳬ शान्तिः शान्तिरेव शान्तीः सामा शान्ति रेधि ॥११॥ 

यतो यतः समीहसे ततोनोऽ अभयङ् कुरु ।। 
शन्नः कुरु प्प्रजाब्भ्यो भयन्नः पशुब्भ्यः ॥ १२॥


Previous Post Next Post

Contact Form